अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥1॥
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया। चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥2॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परंब्रह्म तस्मै श्री गुरवे नमः ॥3॥
स्थावरं जंगमं व्याप्तं यत्किञ्चित् सचराचरम्। तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥4॥
चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥5॥
सर्वश्रुति-शिरोरत्न विराजित-पदाम्बुजः । वेदान्ताम्बुजसूर्याय तस्मै श्री गुरवे नमः ॥6॥
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरंजनः । बिन्दुनाद-कलातीतः तस्मै श्री गुरवे नमः ॥ 7 ॥
ज्ञानशक्ति-समारूढः तत्त्व-माला विभूषितः । भुक्ति-मुक्ति-प्रदाता च तस्मै श्री गुरवे नमः ॥४॥
अनेक जन्मसम्प्राप्त कर्मबन्ध-विदाहिने। आत्मज्ञान प्रदानेन तस्मै श्री गुरवे नमः ॥9॥
शोषणं भव-सिन्धोश्च ज्ञापनं सार-संपदः । गुरोर्पादोदकं सम्यक् तस्मै श्री गुरवे नमः ॥ 10 ॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्व-ज्ञानात् परं नास्ति तस्मै श्री गुरवे नमः ॥ 11 ॥
मन्नाथः श्री जगन्नाथः मद्गुरुः श्री जगद्गुरुः। मदात्मा सर्वभूतात्मा तस्मै श्री गुरवे नमः ॥ 12 ॥
गुरुरादिरनादिश्च गुरुः परम-दैवतम् । गुरोः परतरं नास्ति तस्मै श्री गुरवे नमः ॥ 13 ॥
ध्यानमूलं गुरोर्मूर्त्तिः पूजामूलं गुरोर्पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोकृपा ।। 14 ॥
🙏🏻
ऊं
ॐ गुरुवे नमः