शिव मानस पूजा



रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदांकितं चन्दनम् । जातिचम्पक-बिल्वपत्ररचितं पुष्पं च धूपं तथा। दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥1॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं। भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं। ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥2॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं। वीणाभेरिमृदंग-काहलकला गीतं च नृत्यं तथा । साष्टांगप्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया। संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं। पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः । सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो। यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ 4 ॥

करचरणकृतं वाक्कायजं कर्मजं वा। श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व। जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ 5 ॥

1 thought on “शिव मानस पूजा

Leave a Reply

Your email address will not be published. Required fields are marked *