शिव षडक्षर-स्तोत्रम्

ॐकारं बिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥

नमन्ति ऋषयो देवाः नमन्त्यप्सरसांगणाः । नराः नमन्ति देवेशं नकाराय नमो नमः ॥

महादेवं महात्मानं महाध्यानपरायणम् । महापापहरं देवं मकाराय नमो नमः ॥

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं शिकाराय नमो नमः ॥

वाहनं वृषभो यस्य वासुकी कण्ठभूषणम् । वामे शक्तिधरं देवं वकाराय नमो नमः ।।

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः । यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥

1 thought on “शिव षडक्षर-स्तोत्रम्

Leave a Reply

Your email address will not be published. Required fields are marked *