शिवरक्षास्तोत्रम्

चरितं देवदेवस्य महादेवस्य पावनम् ।            अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ । ॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ 2 ॥

गंगाधरः शिरः पातु भालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णों सर्पविभूषणः ॥ 3 ॥

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः ॥ 4 ॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ 5 ॥

हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ 6

सक्थिनी पातु दीनार्त-शरणागतवत्सलः । ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ 7 ॥

जंघे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वांगानि सदाशिवः ॥ 8 ॥

1 thought on “शिवरक्षास्तोत्रम्

Leave a Reply

Your email address will not be published. Required fields are marked *