श्री गणेशाऽष्टकम्

विनायकैक-भावना-समर्चना-समर्पितं
प्रमोदकैः प्रमोदकैः प्रमोद-मोद-मोदकम् ।
यदर्पितं सदर्पितं नवान्य-धान्यनिर्मितं
न कण्डितं न खण्डितं न खण्डमण्डनं कृतम् ॥ 1 ॥

सजातिकृद्-विजातिकृत्-स्वनिष्ठभेदवर्जितं
निरञ्जनं च निर्गुणं निराकृति ह्यनिष्क्रियम् ।
सदात्मकं चिदात्मकं सुखात्मकं परं पदं
भजामि तं गजाननं स्वमाययात्त विग्रहम् ॥ 2 ॥

गणाधिप ! त्वमष्ठमूर्ति-रीशसूनुरीश्वरः
त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः ।
त्वमेव दीक्षितः क्षितिर्निशाकरः प्रभाकरः
-चराऽचर-प्रचार-हेतुरन्तराय-शान्तिकृत् ॥ 3 ॥

अनेकदन्त-मालनील-मेकदन्त-सुन्दरं
गजाननं नमोऽगजानना-ऽमृताब्धि-मन्दिरम् ।
समस्त-वेदवादसत्-कला-कलाप-मन्दिरं
महान्तराय-कृत्तमोऽर्क-माश्रितोन्दुरुं परम् ॥ 4 ॥

सरत्नहेम-घण्टिका-निनाद-नूपुरस्वनैः
मृदंग-तालनाद-भेद-साधनानुरूपतः ।
धिमि-द्धिमि-त्तथोंग-थोंग-थेयि-थैयिशब्दतो
विनायकः शशांकशेखरः प्रहृष्य नृत्यति ॥5॥

सदा नमामि नायकैक-नायकं विनायकं
कलाकलाप-कल्पना-निदानमादिपुरुषम् ।
गणेश्वरं गुणेश्वरं महेश्वरात्मसम्भवं
स्वपादपद्म-सेविनाम-पार-वैभवप्रदम् ॥6॥

भजे प्रचण्ड-तुन्दिलं सदन्द-शूकभूषणं
सनन्दनादि-वन्दितं समस्त-सिद्धसेवितम् ।
सुराऽसुरौघयोः सदा जयप्रदं भयप्रदं
समस्तविघ्न-घातिनं स्वभक्त-पक्षपातिनम् ॥7॥

कराम्बुजात-कंकणः पदाब्ज-किंकिणीगणो
गणेश्वरो गुणार्णवः-फणीश्वरांगभूषणः ।
जगत्त्रयान्तराय-शान्ति-कारकोऽस्तु तारको
भवार्णवस्थ-घोरदुर्गहा चिदेकविग्रहः ॥ 8 ॥

1 thought on “श्री गणेशाऽष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *