ॐकारं बिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ नमन्ति ऋषयो देवाः नमन्त्यप्सरसांगणाः । नराः नमन्ति देवेशं नकाराय नमो नमः ॥ महादेवं महात्मानं महाध्यानपरायणम् । महापापहरं देवं मकाराय नमो नमः ॥ शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ वाहनं वृषभो यस्य वासुकी कण्ठभूषणम् । वामे शक्तिधरं […]