महिम्नः पारं ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथावाच्यः सर्वः स्वमति-परिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ 1 ॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयोःअतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।सः कस्य स्तोतव्यः कतिविधगुणः कस्य विषयःपदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ 2 ॥ मधुस्फीता वाचः परमममृतं निर्मितवतःतव ब्रह्मन्किं वागपि सुरगुरोर्विस्मय-पदम् ।मम त्वेतां वाणीं गुणकथन-पुण्येन भवतःपुनामीत्यर्थेऽस्मिन्पुरमथन […]