विष्णुकृत शिव-सहस्त्रनाम

शिवो हरो मुडो रुद्रः पुष्करः पुष्पलोचनः। अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥1। ।चन्द्रापीडश्चन्द्रमौलिविश्वं विश्वम्भरेश्वरः। वेदान्तसारसंदोह: कपाली नीललोहितः ॥2॥ ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः । अष्टमूर्तिर्विश्वमूर्तिस्ववर्ग-स्वर्गसाधनः ॥3॥ ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः। वामदेवो महादेवः पटः परिवृको दृढः ॥4॥ विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः । सर्वप्रमाण-संवादी वृषांको वृषवाहनः ॥5॥ ईशः पिनाकी खट्‌वांगी चित्रवेषश्चिरंतनः । तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः।।6॥ कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः । उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥7॥ दिव्यायुधः स्कन्दगुरुः परमेष्ठी परात्परः । अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥8॥ कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमो मृदुः । समाधिवेद्यः कोदण्डी नीलकण्ठः परश्वधी ॥9॥ विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः। धर्मधाम क्षमाक्षेत्रं भगवान् भगनेत्रभित् ॥10॥

उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परंतपः । दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ 11॥ श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः । लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधिः ॥ 12 ॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ 13 ॥ सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः। तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥14॥ अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः । लोककरो वेदकरः सूत्रकारः सनातनः ॥15॥ महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः । पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ॥16॥ धातृधामा धामकरः सर्वगः सर्वगोचरः । ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारप्रियः कविः ।। 17 ॥ शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः। गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ 18 ॥ विजितात्मा विधेयात्मा भूतवाहनसारथिः। सगणो गणकायश्च सुकीर्तिश्छिन्नसंशयः ।॥ 19 ॥ कामदेवः कामपालो भस्मोद् धूलितविग्रहः । भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ।॥ 20 ।।समावर्तोऽनिवृत्तात्माधर्मपुंजः सदाशिवः । अकल्मषश्चतुर्बाहुर्दुरावासो दुरासदः ॥ 21॥ दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ।। 22 ।। शुभांगो लोकसारंगो जगदीशो जनार्दनः । भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ।। 23 ।। असाध्यः साधुसाध्यश्च भृत्यमर्कट-रूपधृक् । हिरण्यरेताः पौराणो रिपुजीवहरो बली ।। 24 ॥ महाह्रदो महागर्तः सिद्धवृन्दारवन्दितः । व्याघ्रचर्माम्बरो व्याली महाभूतो महानिधिः ।। 25 ।। अमृताशोऽमृतवपुः पाञ्चजन्यः प्रभञ्जनः। पञ्चविंशति-तत्त्वस्थः पारिजातः परावरः ।। 26 ॥ सुलभः शूरो ब्रह्मवेद-निधिर्निधिः। वर्णाश्रम-गुरुर्वर्णी शत्रुजिच्छत्रुतापनः ।। 27 ।। आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः । प्रमाणभूतो दुर्जेयः सुपर्णो वायुवाहनः ।। 28 || धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः । सत्यः सत्यपरोऽदीनो धर्मांगः धर्मसाधनः ॥29॥ अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः। अभिवाद्यो महामायो विश्वकर्मविशारदः ।।30।।

वीतरागो विनीतात्मा तपस्वी भूतभावनः । उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः ॥31॥ कल्याणप्रकृतिः कल्पः सर्वलोक-प्रजापतिः । तरस्वी तारको धीमान् प्रधानः प्रभुरव्ययः ॥ 32।। लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः । वेदशास्त्रार्थ-तत्त्वज्ञोऽनियमो नियताश्रयः ॥33॥ चन्द्रः सूर्यः शनिः केतुर्वरांगो विद्रुमच्छविः । भक्तिवश्यः परब्रह्म मृग-बाणार्पणोऽनघः।।34।। अद्रिरद्रयालयः कान्तः परमात्मा जगद‌गुरुः । सर्वकर्मालयस्तुष्टो मंगल्यो मंगलावृतः।।35।। महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः । अहःसंवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥36।। संवत्सरकरो मन्त्र-प्रत्ययः सर्वदर्शनः । अजः सर्वेश्वरः सिद्धो महारेता महाबलः ।॥37॥ योगी योग्यो महातेजाः सिद्धिः सर्वादिरग्रहः । वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥38॥ सुकीर्तिशोभनः श्रीमान् वेदांगो वेदविन्मुनिः । भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥39॥ अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् । कमण्डलुधरो धन्वी अवाङ्‌मनस-गोचरः ॥40॥

अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः । कालयोगी महानादो महोत्साहो महाबलः ।। 41 ॥ महाबुद्धिर्महावीर्यो भूतचारी पुरंदरः। निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ।। 42॥ अनिर्देश्यवपुः श्रीमान् सर्वाचार्यमनोगतिः। बहुश्रुतोऽमहामायो नियतात्मा ध्रुवोऽध्रुवः ॥43।। ओजस्तेजो-द्युतिधरो जनकः सर्वशासनः । नृत्यप्रियो नित्यनृत्यः प्रकाशात्मा प्रकाशकः ॥ 44॥ स्पष्टाक्षरो बुधो मन्त्रः समानः सारसम्प्लवः। युगादि-कृद्युगावर्तो गम्भीरो वृषवाहनः ॥45।। इष्टोऽविशिष्टः शिष्टेष्टः सुलभः सारशोधनः । तीर्थरूपस्तीर्थनामा तीर्थदृश्यस्तु तीर्थदः ।। 46 ।। अपांनिधिरधिष्ठानं दुर्जयो जयकालवित्। प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ 47 | विमोचनः सुरगणो विद्येशो विन्दुसंश्रयः । बालरूपोऽबलोन्मत्तोऽविकर्ता गहनो गुहः ।। 48 ॥ करणं कारणं कर्ता सर्वबन्धविमोचनः। व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ।। 49 ॥ गुरुदो ललितोऽभेदो भावात्माऽऽत्मनि संस्थितः । वीरेश्वरो वीरभद्रो वीरासनविधिर्विराट् ।। 50॥

वीरचूडामणिर्वेत्ता चिदानन्दो नदीधरः । आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ।। 51 ॥ वालखिल्यो महाचापस्तिग्मांशुर्बधिरः खगः । अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ।। 52 ॥ मघवान्कौशिको गोमान्विरामः सर्वसाधनः । ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ।।53 ॥ अमोघदण्डो मध्यस्थो हिरण्यो ब्रह्मवर्चसी। परमार्थः परो मायी शम्बरो व्याघ्रलोचनः ।। 54॥ रुचिर्विरंचिः स्वर्बन्धुर्वाचस्पतिरहर्पतिः । रविर्विरोचनः स्कन्दः शास्ता वैवस्वतो यमः ॥ 55 ॥ युक्तिरुन्नत-कीर्तिश्च सानुरागः परंजयः । कैलासाधिपतिः कान्तः सविता रविलोचनः ॥ 56 ॥ विद्वत्तमो विश्वभर्त्ता-निवारितः । नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥57 ॥ दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः । उत्तारणो दुष्कृतिहा विज्ञेयो दुस्सहोऽभवः ।॥ 58 ॥ अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः। विश्वगोप्ता विश्वकर्ता सुवीरो रूचिरांगदः ।।59।। जननो जनजन्मादिः प्रीतिमान्नीतिमान्धवः । वसिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ 60॥

प्रणवः सत्पथाचारो महाकोशो महाधनः । जन्माधिपो महादेवः सकलागमपारगः ॥ 61 ।। तत्त्वं तत्त्वविदेकात्मा विभुर्विश्वविभूषणः । ऋषिर्बाह्मण ऐश्वर्य-जन्ममृत्यु-जरातिगः ॥62 | पञ्चयज्ञ-समुत्पत्ति-र्विश्वेशो विमलोदयः । आत्मयोनिरनाद्यन्तो वत्सलो भक्तलोकधृक ।।63।। गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः । शिशूर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा॥ 64॥ अमोघोऽरिष्टनेमिश्च कुमुदो विगतज्वरः। स्वयंज्योतिस्तनुज्योतिरात्मज्योतिर चञ्चलः ॥65॥ पिंगलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः । ज्ञानस्कन्दो महानीति-र्विश्वोत्पत्तिरुपप्लवः ॥66॥ भगो विवस्वानादित्यो योगपारो दिवस्पतिः । कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥ 67 ॥ उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः । नक्षत्रमाली नाकेशः स्वाधिष्ठान-पदाश्रयः ॥68 ॥ पवित्रः पापहारी च मणिपूरो नभोगतिः । हृत्पुण्डरीकमासीनः शक्रः शान्तो वृषाकपिः ॥ 69॥ उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः । अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः ॥ 70

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । जगद्धितैषी सुगतः कुमारः कुशलागमः ॥71॥ हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः। अरागो नयनाध्यक्षो विश्वामित्रो धनेश्वरः ॥ 72 ॥ ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः । मातामहो मातरिश्वा नभस्वा-न्नागहारधृक् ॥ 73 ॥ पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः । निरावरणनिर्वारो वैरञ्च्यो विष्टरश्रवाः ।। 74 ॥ आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः । लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥ 75 ॥ व्यालाकल्यो महाकल्पः कल्पवृक्षः कलाधरः । अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः ।। 76 ॥ आयुः शब्दपतिर्वेगी प्लवनः शिखिसारथिः । असंसृष्टोऽतिथिः शक्रप्रमाथी पादपासनः ।। 77 ॥ वसुश्रवा हव्यवाहः प्रतप्तो विश्वभोजनः । जप्यो जरादिशमनो लोहितात्मा तनूनपात् ।। 78 ॥ बृहदश्वो नभोयोनिः सुप्रतीकस्तमिस्त्रहा। निदाघस्तपनो मेघः स्वक्षः परपुरञ्जयः ॥ 79॥ सुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः । वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ।। 80 ॥

अंगिरा गुरुरात्रेयो विमलो विश्ववाहनः । पावनः सुमतिर्विद्वांस्त्रैविद्यो वरवाहनः ॥ 81 ॥ मनोबुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः । जमदग्निर्बलनिधि-र्विगालो विश्वगालवः ।। 82 ॥ अघोरोऽनुत्तरो यज्ञः श्रेष्ठो निःश्रेयसप्रदः । शैलो गगनकुन्दाभो दानवारिररिंदमः ॥ 83 ॥ रजनीजनक-श्चारुर्निः शल्यो लोकशल्यधृक् । चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ 84 ॥ आम्नायोऽथ समाम्नायस्तीर्थदेव-शिवालयः। बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ 85 ॥ न्यायनिर्मायको न्यायी न्यायगम्यो निरञ्जनः । सहस्त्रमूर्द्धा देवेन्द्रः सर्वशस्र-प्रभञ्जनः ॥ 86 ॥ मुण्डो विरुपो विक्रान्तो दण्डी दान्तो गुणोत्तमः । पिंगलाक्षो जनाध्यक्षो नीलग्रीवो निरामयः ॥ 87 ॥ सहस्त्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् । पद्मासनः परं ज्योतिः पारम्पर्य्यफलप्रदः ॥ 88 ॥ पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः। परावरज्ञो वरदो वरेण्यश्च महास्वनः।।89।। देवासुर-गुरूर्देवो देवासुर-नमस्कृतः। देवासुर-महामित्रो देवासुर-महेश्वरः ।।90।। देवासुरेश्वरो दिव्यो देवासुर-महाश्रयः । देवदेवमयोऽचिन्त्यो देवदेवात्म-सम्भवः ॥91।। सद्योनिरसुर-व्याघ्रो देवसिंहो दिवाकरः। विबुधाग्रचरश्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ 92॥ शिवज्ञानरतः श्रीमाञ्छिखिश्रीपर्वतप्रियः । वज्रहस्तः सिद्धखडगो नरसिंहनिपातनः ॥93॥ ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः। नन्दी नन्दीश्वरोऽनन्तो नग्नव्रतधरः शुचिः ॥94॥ लिंगाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः । स्वधर्मा स्वर्गतः स्वर्गस्वरः स्वरमयस्वनः ॥95॥ बाणाध्यक्षो बीजकर्ता धर्मकृद्धर्मसम्भवः । दम्भोऽलोभोऽर्थविच्छम्भुः सर्वभूतमहेश्वरः।।96।। श्मशाननिलयस्त्रयक्षः सेतुरप्रतिमाकृतिः । लोकोत्तर स्फुटालोकस्त्र्यम्बको नागभूषणः ॥97॥ अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः । हीनदोषोऽक्षयगुणो दक्षारिः पूषदन्तभित् ॥98॥ धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः । अकालः सकलाधारः पाण्डुराभो मृडो नटः ।॥99॥ पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः । सामगेयप्रियोऽक्रूरः पुण्यकीर्तिरनामयः ।। 100।।

मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः। जीवितान्तकरो नित्यो वसुरेता वसुप्रदः ।। 101 || सद्गतिः सत्कृतिः सिद्धिः सज्जातिः खलकण्टकः । कलाधरो महाकालभूतः सत्यपरायणः ।। 102॥ लोकलावण्यकर्ता च लोकोत्तरसुखालयः । चन्द्रसंजीवनः शास्ता लोकगूढो महाधिपः ।। 103॥ लोकबन्धुर्लोकनाथः कृतज्ञः कीर्तिभूषणः। अनपायोऽक्षरः कान्तः सर्वशस्त्रभृतां वरः ।। 104॥ तेजोमयो द्युतिधरो लोकानामग्रणीरणुः। शुचिस्मितः प्रसन्नात्मा दुर्जेयो दुरतिक्रमः ।। 105 ।।॥

ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः। तुम्बवीणो महाकोपो विशोकः शोकनाशनः ॥ 106 || त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः । अव्यक्तलक्षणो देवो व्यक्ताव्यक्तो-विशाम्पतिः ॥ 107॥ वरशीलो वरगुणः सारो मानधनो मयः। ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥ 108 || वेधा विधाता धाता च स्रष्टा हर्ता चतुर्मुखः । कैलासशिखरावासी सर्वावासी सदागतिः ॥ 109 ॥ हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः। सद्योगी योगविद्योगी वरदो ब्राह्मणप्रियः ।। 110॥

देवप्रियो देवनाथो देवज्ञो देवचिन्तकः । विषमाक्षो विशालाक्षो वृषदो वृषवर्धनः ॥ 111॥ निर्ममो निरहंकारो निर्मोहो निरुपद्रवः। दर्पहा दर्पदो दृप्तः सर्वर्तुपरिवर्तकः ॥ 112॥ सहस्रजित् सहस्रार्चिः स्निग्धप्रकृतिदक्षिणः । भूतभव्य-भवन्नाथः प्रभवो भूतिनाशनः ।। 113॥ अर्थोऽनर्थो महाकोशः परकार्येक- पण्डितः । निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ।। 114॥ सत्त्ववान्सात्त्विकः सत्य-कीर्तिः स्नेहकृतागमः । अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ॥ ॥115॥ सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणानिलः । नन्दिस्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ।॥116॥ अपराजितः सर्वसत्त्वो गोविन्दः सत्त्ववाहनः । अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥117॥ वाराह श्रृंगधृक्छृंगी बलवानेकनायकः। श्रुतिप्रकाशः श्रुतिमानेक-बन्धुरनेककृत् ॥118॥

श्रीवत्सल- शिवारम्भः शान्तभद्रः समो यशः । भूशयो भूषणो भूतिर्भूतकृद् भूतभावनः ॥119॥ अकम्पो भक्तिकायस्तु कालहा नीललोहितः । सत्यव्रत-महात्यागी नित्यशान्तिपरायणः ॥120॥ परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः । शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥ 121।। अनर्थितोऽगुणः साक्षी ह्यकर्ता कनकप्रभः । स्वभावभद्रो मध्यस्थः शत्रुघ्नो विघ्ननाशनः ।। 122।। शिखण्डी कवची शूली जटी मुण्डी च कुण्डली। अमृत्युः सर्वदृकसिंह-स्तेजोराशिर्महामणिः ॥ ॥123॥ असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः । वेद्यश्चैव वियोगात्मा परावरमुनीश्वरः ।। 124 ।। अनुत्तमो दुराधर्षो मधुरप्रियदर्शनः। सुरेशः शरणं सर्वः शब्दब्रह्म सतां गतिः ॥ 125॥ कालपक्षः कालकालः कंकणीकृतवासुकिः । महेष्वासो महीभर्ता निष्कलंको विश्रृंखलः ।। 126 ।। द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः । विश्वतः संवृतः स्तुत्यो व्यूढोरस्को महाभुजः ।। 127 ॥ सर्वयोनिर्निरातंको नरनारायणप्रियः। निर्लेपो निष्प्रपञ्चात्मा निर्व्यंगो व्यंगनाशनः ।। 128 ।। स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरंकुशः । निरवद्यमयोपायो विद्याराशी रसप्रियः ।। 129।। प्रशान्तबुद्धि-रक्षुण्णः संग्रही नित्यसुन्दरः । वैयाघ्रधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ॥ 130 ॥ परमार्थगुरुर्दत्तः सूरिराश्रित-वत्सलः। सोमो रसज्ञो रसदः सर्वसत्त्वावलम्बनः ।। 131 ॥ ऊं शांतिः शांतिः शांतिः ।

1 thought on “विष्णुकृत शिव-सहस्त्रनाम

Leave a Reply

Your email address will not be published. Required fields are marked *