विनायकैक-भावना-समर्चना-समर्पितं प्रमोदकैः प्रमोदकैः प्रमोद-मोद-मोदकम् । यदर्पितं सदर्पितं नवान्य-धान्यनिर्मितं न कण्डितं न खण्डितं न खण्डमण्डनं कृतम् ॥ 1 ॥ सजातिकृद्-विजातिकृत्-स्वनिष्ठभेदवर्जितं निरञ्जनं च निर्गुणं निराकृति ह्यनिष्क्रियम् ।सदात्मकं चिदात्मकं सुखात्मकं परं पदं भजामि तं गजाननं स्वमाययात्त विग्रहम् ॥ 2 ॥ गणाधिप ! त्वमष्ठमूर्ति-रीशसूनुरीश्वरः त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः ।त्वमेव दीक्षितः क्षितिर्निशाकरः प्रभाकरः -चराऽचर-प्रचार-हेतुरन्तराय-शान्तिकृत् ॥ 3 ॥ अनेकदन्त-मालनील-मेकदन्त-सुन्दरं गजाननं […]