ॐ नमस्ते गणपतये।त्वमेव प्रत्यक्षं तत्वमसित्वमेव केवलं कर्ताऽसित्वमेव केवलं धर्ताऽसित्वमेव केवलं हर्ताऽसित्वमेव सर्वं खल्विदं ब्रह्मासित्व साक्षादात्माऽसि नित्यम्।।1।।ऋतं वच्मि। सत्यं वच्मि।।2।।अव त्व मां। अव वक्तारं।अव श्रोतारं। अव दातारं।अव धातारं। अवानूचानमव शिष्यं।अव पश्चातात। अव पुरस्तात।अवोत्तरात्तात। अव दक्षिणात्तात्।अवचोर्ध्वात्तात्।। अवाधरात्तात्।।सर्वतो मां पाहि-पाहि समंतात्।।3।।त्वं वाङ्‍मयस्त्वं चिन्मय:।त्वमानंदमसयस्त्वं ब्रह्ममय:।त्वं सच्चिदानंदाद्वितीयोऽसि।त्वं प्रत्यक्षं ब्रह्मासि।त्वं ज्ञानमयो विज्ञानमयोऽसि।।4।।सर्वं जगदिदं त्वत्तो जायते।सर्वं जगदिदं त्वत्तस्तिष्ठति।सर्वं जगदिदं त्वयि लयमेष्यति।सर्वं जगदिदं […]

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं ।चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥२॥ वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥३॥ गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।रूपं मधुरं

मधुराष्टकम्Read More »

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदांकितं चन्दनम् । जातिचम्पक-बिल्वपत्ररचितं पुष्पं च धूपं तथा। दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥1॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं। भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं। ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥2॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं। वीणाभेरिमृदंग-काहलकला गीतं च नृत्यं तथा

शिव मानस पूजाRead More »

विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय । कर्पूरकान्तिधवलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 1 ॥ गौरिप्रियाय रजनीशकला-धराय कालान्तकाय भुजगाधिपकंकणाय । गंगाधराय गजराज-विमर्दनाय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 2 ॥ भक्तिप्रियाय भव-रोग-भयापहाय उग्राय दुर्गभव-सागरतारणाय । ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 3 ॥ चर्माम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय । मञ्जीरपादयुगलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 4 ॥ पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय

दारिद्रय दहन स्तोत्रम्Read More »

चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ । ॥गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ 2 ॥गंगाधरः शिरः पातु भालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णों सर्पविभूषणः ॥ 3 ॥घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः ॥ 4 ॥श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता

शिवरक्षास्तोत्रम्Read More »

ॐकारं बिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ नमन्ति ऋषयो देवाः नमन्त्यप्सरसांगणाः । नराः नमन्ति देवेशं नकाराय नमो नमः ॥ महादेवं महात्मानं महाध्यानपरायणम् । महापापहरं देवं मकाराय नमो नमः ॥ शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ वाहनं वृषभो यस्य वासुकी कण्ठभूषणम् । वामे शक्तिधरं

शिव षडक्षर-स्तोत्रम्Read More »

शिवो हरो मुडो रुद्रः पुष्करः पुष्पलोचनः। अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥1। ।चन्द्रापीडश्चन्द्रमौलिविश्वं विश्वम्भरेश्वरः। वेदान्तसारसंदोह: कपाली नीललोहितः ॥2॥ ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः । अष्टमूर्तिर्विश्वमूर्तिस्ववर्ग-स्वर्गसाधनः ॥3॥ ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः। वामदेवो महादेवः पटः परिवृको दृढः ॥4॥ विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः । सर्वप्रमाण-संवादी वृषांको वृषवाहनः ॥5॥ ईशः पिनाकी खट्‌वांगी चित्रवेषश्चिरंतनः । तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः।।6॥ कालकालः कृत्तिवासाः सुभगः

विष्णुकृत शिव-सहस्त्रनामRead More »

अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥1॥ अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया। चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥2॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परंब्रह्म तस्मै श्री गुरवे नमः ॥3॥ स्थावरं जंगमं व्याप्तं यत्किञ्चित् सचराचरम्। तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥4॥ चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं

गुरू-स्तोत्रम्Read More »

नमामीशमीशान निर्वाणरूपं, विभुं व्यापकं ब्रह्म वेदस्वरूपम् । निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥ निराकारमोंकारमूलं तुरीयं गिराज्ञान गोतीतमीशं गिरीशम् । करालं महाकालकालं कृपालं गुणागार संसारपारं नतोऽहम् ॥ २ ॥ तुषाराद्रिसंकाशगौरं गभीरं मनोभूत कोटि प्रभा श्रीशरीरम् । स्फुरन्मौलि कल्लोलिनी चारु गंगा लसद्भालबालेन्दु कण्ठे भुजंगा ॥ ३ चलत्कुण्डलं भ्रू सुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम् । मृगाधीशचर्माम्बरं

रुद्राष्टकम्Read More »