ॐकारं बिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ नमन्ति ऋषयो देवाः नमन्त्यप्सरसांगणाः । नराः नमन्ति देवेशं नकाराय नमो नमः ॥ महादेवं महात्मानं महाध्यानपरायणम् । महापापहरं देवं मकाराय नमो नमः ॥ शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ वाहनं वृषभो यस्य वासुकी कण्ठभूषणम् । वामे शक्तिधरं […]

अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥1॥ अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया। चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥2॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परंब्रह्म तस्मै श्री गुरवे नमः ॥3॥ स्थावरं जंगमं व्याप्तं यत्किञ्चित् सचराचरम्। तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥4॥ चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं

गुरू-स्तोत्रम्Read More »