विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय । कर्पूरकान्तिधवलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 1 ॥ गौरिप्रियाय रजनीशकला-धराय कालान्तकाय भुजगाधिपकंकणाय । गंगाधराय गजराज-विमर्दनाय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 2 ॥ भक्तिप्रियाय भव-रोग-भयापहाय उग्राय दुर्गभव-सागरतारणाय । ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 3 ॥ चर्माम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय । मञ्जीरपादयुगलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 4 ॥ पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय […]
Tag: #shankar
शिवो हरो मुडो रुद्रः पुष्करः पुष्पलोचनः। अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥1। ।चन्द्रापीडश्चन्द्रमौलिविश्वं विश्वम्भरेश्वरः। वेदान्तसारसंदोह: कपाली नीललोहितः ॥2॥ ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः । अष्टमूर्तिर्विश्वमूर्तिस्ववर्ग-स्वर्गसाधनः ॥3॥ ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः। वामदेवो महादेवः पटः परिवृको दृढः ॥4॥ विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः । सर्वप्रमाण-संवादी वृषांको वृषवाहनः ॥5॥ ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः । तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः।।6॥ कालकालः कृत्तिवासाः सुभगः
राधे राधे🙏🏻
ऊं गं गणपतये नमः🙏🏻
राधे राधे🙏🏻
जय श्री कॄष्ण🙏🏻
Om namah shivay